वांछित मन्त्र चुनें
आर्चिक को चुनें

ब्र꣡ह्म꣢ जज्ञा꣣नं꣡ प्र꣢थ꣣मं꣢ पु꣣र꣢स्ता꣣द्वि꣡ सी꣢म꣣तः꣢ सु꣣रु꣡चो꣢ वे꣣न꣡ आ꣢वः । स꣢ बु꣣꣬ध्न्या꣢꣯ उप꣣मा꣡ अ꣢स्य वि꣣ष्ठाः꣢ स꣣त꣢श्च꣣ यो꣢नि꣣म꣡स꣢तश्च꣣ वि꣡वः꣢ ॥३२१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥३२१॥

मन्त्र उच्चारण
पद पाठ

ब्र꣡ह्म꣢꣯ । ज꣣ज्ञान꣢म् । प्र꣢थम꣢म् । पु꣣र꣡स्ता꣢त् । वि । सी꣣मतः꣢ । सु꣣रु꣡चः꣢ । सु꣣ । रु꣡चः꣢꣯ । वे꣣नः꣢ । अ꣣वरि꣡ति꣢ । सः । बु꣣ध्न्याः꣡ । उ꣣पमाः । उ꣣प । माः꣢ । अ꣣स्य । विष्ठाः꣢ । वि꣣ । स्थाः꣢ । स꣣तः꣢ । च꣣ । यो꣡नि꣢꣯म् । अ꣡स꣢꣯तः । अ । स꣣तः । च । वि꣢ । व꣣रि꣡ति꣢ ॥३२१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 321 | (कौथोम) 4 » 1 » 3 » 9 | (रानायाणीय) 3 » 9 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सूर्य तथा परमेश्वर के महान् कार्य का वर्णन किया गया है।

पदार्थान्वयभाषाः -

प्रथम—सूर्य के पक्ष में। (प्रथमम्) श्रेष्ठ (ब्रह्म) महान् आदित्यरूप ज्योति (पुरस्तात्) पूर्व दिशा में (जज्ञानम्) प्रकट हो रही है। (वेनः) कान्तिमान् सूर्य ने (सीमतः) चारों ओर अथवा मर्यादापूर्वक (सुरुचः) सम्यक् रोचमान किरणों को (वि आवः) रात्रि के अन्धकार के अन्दर से आविर्भूत कर दिया है। (सः) वह सूर्य (उपमाः) सबके समीप स्थित (अस्य) इस जगत् की (विष्ठाः) विशेष रूप से स्थितिसाधक (बुध्न्याः) अन्तरिक्षवर्ती दिशाओं को (विवः) अपने प्रकाश से प्रकाशित करता है, और (सतः च) व्यक्त अर्थात् कार्यरूप में परिणत, (असतः च) और कारण के अन्दर अव्यक्तरुप से विद्यमान पदार्थ-समूह के (योनिम्) गृहरूप भूमण्डल को (विवः) प्रकाशित करता है ॥ द्वितीय—परमात्मा के पक्ष में। (प्रथमम्) श्रेष्ठ (ब्रह्म) जगत् का आदिकारण ब्रह्म (पुरस्तात्) पहले, सृष्टि के आदि में (जज्ञानम्) प्रकृति के गर्भ से महत् आदि जगत्प्रपञ्च का जनक हुआ। (वेनः) मेधावी उस परब्रह्म ने (सीमतः) मर्यादा से अर्थात् महदादि क्रम से व्यवस्थापूर्वक (सुरुचः) सुरोचमान पदार्थों को (वि आवः) उत्पन्न किया। (सः) उसी परब्रह्म ने (उपमाः) समीपता से धारण तथा आकर्षण की शक्तियों द्वारा एक-दूसरे को स्थिर रखनेवाले, और (अस्य) इस जगत् के (विष्ठाः) विशेष रूप से स्थिति के निमित्त (बुध्न्याः) आकाशस्थ सूर्य, चन्द्र, पृथिवी, तारे आदि लोकों को (विवः) प्रकाशित किया। उसी ने (सतः च) व्यक्त भूमि, जल, अग्नि, पवन आदि (असतः च) और अव्यक्त महत्, अहंकार, पञ्चतन्मात्रा आदि की (योनिम्) कारणभूत प्रकृति को (विवः) कार्य पदार्थों के रूप में प्रकट किया ॥९॥ इस मन्त्र में श्लेषालङ्कार है। ‘सतश्च-सतश्च’ की एक बार आवृत्ति में यमक है ॥९॥

भावार्थभाषाः -

कान्तिमान् सूर्य पूर्व दिशा में प्रकट होता हुआ अपनी सुप्रदीप्त किरणों को आकाश और भूमि पर प्रसारित करता हुआ सब दिशाओं को तथा सौर जगत् को प्रकाशित करता है। कान्तिमान् मेधावी परमेश्वर प्रकृति के मध्य से सुरोचमान पदार्थों को और सूर्य, चन्द्र, पृथिवी, तारे आदि लोकों को प्रकट करता है। उस सूर्य का भली-भाँति उपयोग और उस परमेश्वर की स्तुति, प्रार्थना तथा उपासना सबको करनी चाहिए ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सूर्यस्य परमेश्वरस्य च महत् कृत्यं वर्णयति।

पदार्थान्वयभाषाः -

प्रथमः—आदित्यपक्षे। (प्रथमम्) श्रेष्ठम् (ब्रह्म२) महद् आदित्यलक्षणं ज्योतिः। बृहि वृद्धौ धातोः, ‘बृंहेर्नोऽच्च। उ० ४।१४६’ इति मनिन्, नकारस्य च आकारादेशः। (पुरस्तात्) पूर्वस्यां दिशि (जज्ञानम्) जायमानं वर्तते। जनी प्रादुर्भावे दिवादिः, शानचि छान्दसः शपः श्लुः, तेन द्वित्वम्। (वेनः) कान्तिमान् आदित्यरूपः इन्द्रः। वेनो वेनतेः कान्तिकर्मणः। निरु० १०।३७। असौ आदित्यो वेनः, श० ७।४।१।१४। (सीमतः) सर्वतः मर्यादातो वा (सुरुचः) सुरोचनान् रश्मीन् (वि अवः) रात्रेस्तमसोऽभ्यन्तरात् विवृणोति। संहितायाम् आवः इति दीर्घत्वं छान्दसम्। (सः) असौ आदित्यः (उपमाः) सर्वेषाम् अन्तिकस्थाः। उपमे इत्यन्तिकनाम। निघं० २।१६। (अस्य) एतस्य जगतः (विष्ठाः३) विशेषेण स्थितिसाधिकाः (बुध्न्याः४) बुध्नम् अन्तरिक्षं, (तत्र) भवाः बुध्न्याः दिशः (विवः) स्वप्रकाशेन विवृणोति। किञ्च (सतः च) व्यक्तस्य, कार्यात्मना परिणतस्य (असतः च) अव्यक्तस्य, कारणे निलीनस्य च वस्तुजातस्य (योनिम्) गृहं, भूमण्डलमित्यर्थः। योनिरिति गृहनाम। निघं० ३।४। (विवः) विवृणोति प्रकाशयति। ‘वि अवः, विवः’ इत्यत्र वि पूर्वाद् वृञ् वरणे धातोर्लुङि ‘मन्त्रे घसह्वरणशवृ०। अ० २।४।८०’ इति च्लेर्लुक्, पक्षे छान्दसः अडभावः। लडर्थे लुङ्प्रयोगः ॥ अत्र यास्काचार्यः ‘सीम्’ इत्येतस्य निपातस्य प्रकरणे ब्रूते—सीम् इति परिग्रहार्थीयो वा पदपूरणो वा। ‘विसीमतः सुरुचो वेन आवः’ इति च। व्यवृणोत् सर्वत आदित्यः। सुरुच आदित्यरश्मयः सुरोचनात्। अपि वा सीम् इत्येतद् अनर्थकम् उपबन्धमाददीत पञ्चमीकर्माणम्। सीम्नः सीमतः मर्यादातः। सीमा मर्यादा विसीव्यति देशाविति। निरु० १।६ ॥ अथ द्वितीयः—परमात्मपक्षे। (प्रथमम्) श्रेष्ठम् (ब्रह्म) जगदादिकारणं परं ब्रह्म (पुरस्ताद्) पूर्वं सृष्ट्यादौ (जज्ञानम्५) प्रकृतिगर्भाद् महदादिजगत्प्रपञ्चस्य जनकम् अभवत्। यो जनयामास तद् जज्ञानम्, णेर्लुक्। (वेनः) मेधावी स इन्द्रः परमेश्वरः। वेनः इति मेधाविनाम। निघं० ३।१५। (सीमतः) मर्यादातः व्यवस्थापूर्वकं महदादिक्रमेण (सुरुचः) सुरोचमानान् पदार्थान् (वि अवः) व्यवृणोत्, उत्पादितवान्। (सः) असौ परमेश्वरः (उपमाः) उपेत्य मान्ति धारणाकर्षणशक्तिभिः परस्परं स्थिरीकुर्वन्ति तान्, अपि च (अस्य) एतस्य जगतः (विष्ठाः) विशेषेण स्थितिनिमित्तान् (बुध्न्याः६) बुध्ने अन्तरिक्षे भवान् सूर्यचन्द्रपृथिवीतारकादीन् लोकान् (विवः) व्यवृणोत् प्रकाशितवानस्ति। स एव (सतः च) व्यक्तस्य भूजलाग्निपवनादेः (असतः च) अव्यक्तस्य महदहंकारपञ्चतन्मात्रादेश्च (योनिम्) कारणं प्रकृतिम् (विवः) कार्यात्मना व्यवृणोत् ॥९॥७ अत्र श्लेषालङ्कारः। ‘सतश्च-सतश्च’ इत्यावृत्तौ यमकम् ॥९॥

भावार्थभाषाः -

कान्तिमान् आदित्यः पूर्वस्यां दिशि जायमानः सन् स्वकीयान् सुप्रदीप्तान् रश्मीन् दिवि भुवि च प्रसारयन् सर्वा दिशः सौरं जगच्च प्रकाशयति। कान्तिमान् मेधावी परमेश्वरश्च प्रकृतेर्मध्यात् सुरोचमानान् पदार्थान् सूर्यचन्द्रपृथिवीतारकादीन् लोकांश्चाविष्कृणोति। तस्यादित्यस्य सम्यगुपयोगः, तस्य परमेश्वरस्य स्तुतिप्रार्थनोपासनानि च सर्वैः कर्तव्यानि ॥९॥

टिप्पणी: १. य० १३।३ ऋषिः वत्सारः, देवता आदित्यः। अथ० ४।१।४ ऋषिः वेनः, देवता बृहस्पतिः, आदित्यः। अथ० ५।६।५ ऋषिः अथर्वा, देवता ब्रह्म। २. ब्रह्मेति बृहेर्वृद्ध्यर्थस्य बिभर्तेः भरणार्थस्य वा रूपम्। परिवृद्धत्वात् सर्वस्य वा भरणाद्, ब्रह्मशब्देन आदित्यमण्डलम् उच्यते—इति वि०। ३. विष्ठाः स्थितिसाधिकाः—इति य० २३।५८ भाष्ये द०। विष्टभ्य स्थात्रीः—इति वि०। वितिष्ठन्ते प्रतिष्ठन्ते इति विष्ठाः आपः—इति भ०। विष्ठाः विशेषेण स्थापितवान्—इति सा०। ४. बुध्नम् अन्तरिक्षम्, तस्मिन् भवाः बुध्न्याः दिशः—इति वि०। ५. (जज्ञानम्) सर्वस्य जनकं, विज्ञातृ—इति य० १३।३ भाष्ये द०। ‘सर्वत्र जज्ञानस्य जनक एवार्थ उच्यते। तद्यथा ऋ० ३।१।४, ऋ० ६।२१।७, ऋ० ३।४४।४ द० भाष्ये’ इति तत्रैव ब्रह्मदत्तजिज्ञासुसंस्करणे टिप्पणी। ६. (बुध्न्याः) बुध्ने जलसंबद्धेऽन्तरिक्षे भवाः सूर्यचन्द्रपृथिवीतारकादयो लोकाः—इति य० १३।३ भाष्ये द०। ७. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘किंस्वरूपं ब्रह्म जनैरुपास्यमिति’ विषये व्याख्यातवान्।